देवेन्द्रैः पूजितांघ्रि…
Post by: arihant in Shri Parshwanath Chaityavandan
देवेन्द्रैः पूजितांघ्रि सजलघनतनुज्याेतिरूपाे जिनेन्द्रः
सर्वज्ञाे वीतरागाे निजगुणरमणाे धर्ममूर्तिर्दमीशः
भव्यानां कल्पवृक्षाे विविधसुखकराे विघ्नकर्मस्य हन्ता,
साेऽयं शंखेश्वराे मे ददतु शिवसुखं सच्चिदानंदसार 1
विश्वे सर्वेपि लाेकाः शुभमतिविभवाः ध्यानमध्ये रटन्ति,
पार्श्व पार्श्व च पार्श्व प्रवरजयकरं पार्श्वनामेति सत्यम,
दैत्यारेः कष्टहन्ता त्वहिसुरसुखदाे धर्मराजः प्रतीतः
साेऽयं शंखेश्वराे मे ददतु शिवसुखं सच्चिदानंदसार 2
दुष्टाे याे मेघमालीकृतगुणविमुखाे मन्दधिर्मानमूढाे,
विद्युत्झत्कारयुक्तैः प्रस्रवनसुघनैर्गर्जशब्दैश्चकार
कष्टं तस्यापि बाेधं ददसि जिनवराे सूरि राजेन्द्र अेष;
साेऽयं शंखेश्वराे मे ददतु शिवसुखं सच्चिदानंदसार 3
Tags: Jain Chaityavandan
Leave a comment